प्र सम् उप उतित्येतषां पादपूरणे द्वे भवतो द्विर्वचनेन चेत् पादः पूर्वते। प्रप्रायम् अग्निर् भरतस्य शृण्वे। संसमिद्युवसे वृषन्। उपोप मे परा मृश किं नोदुदु हर्षसे दातवा उ। पादपूरणे इति किम्? प्र देवं देव्या धिया। सामार्थ्याच् छन्दस्येव एतद् विधानम्। भाषायाम् अनर्थकं स्यात्, प्रयोगाभावात्।
"प्रसमुपोदः" इति।
"द्वन्द्वाच्चुदषहान्तात्? समाहारे"
५।४।१०६ इति समासान्तो न कृतः; समासान्तविधेरनित्यत्वात्()। "पादपूरणे" इति। "यस्य च भावेन भावलक्षणम्()"
२।३।३७ इति सप्तमीयम्()। पादपूरणस्य भावेनोत्पत्तिलक्षणेन द्विर्वचनसक्य भावो लक्ष्यते।
ननु च द्विर्वचनात्? प्राक्? पादपूरणमसदेव,
तत्? कुतस्तस्य भावो द्विर्वचनस्य लक्षणं स्यात्(),
न हि तत्? सत्त्वम्()? असारमेतत्(); तदुत्पत्तिह्र्रत्र भावः, सा चानिष्पन्नसत्ताकस्यैव भवति, न निष्पन्नसत्ताकस्य। न हि मृत्तिकावस्थायां सन्तो घटादय उत्पद्यन्तेः पादश्चेह विशेषानभिधानेऽपि सामथ्र्यादृच एव गृह्रते, न श्लोकस्य। लौकिको हि श्लोकः, लोके चार्थपरत्वादनर्थकस्य प्रयोगो नोपपद्यते॥